||Sundarakanda ||

|| Sarga 36||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥ऒम् तत् सत्॥

सुन्दरकांड.
अथ षट्र्त्रिंशस्सर्गः

भूय एव महातेजा हनुमान् मारुतात्मजः।
अब्रवीत् प्रश्रितं वाक्यं सीता प्रत्ययकारणात्॥1||

वानरोऽ‍हं महभागे दूतो रामस्य धीमतः।
रामानामांकितं चेदं पश्य देव्यंगुळीयकम्॥2||

प्रत्ययार्थं तवाssनीतं तेन दत्तं महात्मना।
समाश्वसिहि भद्रं ते क्षीण दुःखफला ह्यसि॥3||

इत्युक्त्वा प्रददौ तस्यै सीतायै वानरोत्तमः।
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्॥
भर्तारमिव संप्राप्ता जानकी मुदिताsभवत्॥4||

चारुतद्वदनं तस्या स्ताम्रशुक्लाय तेक्षणम्।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्॥5||

ततस्सा ह्रीमती बाला भर्तृसंदेशहर्षिता।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्॥6||

विक्रांतस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम।
ये नेदं राक्षपदं त्वयैकेन प्रधर्षितम्॥7||

शतयोजनविस्तीर्णः सागरो मकरालयः।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥8||

न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ।
यस्य ते नास्ति संत्रासो रावणा न्नापि संभ्रमः॥9||

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्।
यद्यपि प्रेषितस्तेन रामेण विदितात्मना॥10||

प्रेषयिष्यति दुर्दर्षो रामो न ह्य परीक्षितम्।
पराक्रम मविज्ञाय मत्सकाशं विशेषतः॥11||

दिष्ट्या च कुशली रामो धर्मात्मा सत्यसंगरः।
लक्ष्मणश्च महातेजा स्सुमित्रानंदवर्धनः॥12||

कुशली यदि काकुत्‍स्थः किं नु सागरमेखलां।
महीं दहति कोपेन युगांताग्नि रिवोत्थितः॥13||

अथवा शक्तिमंतौ तौ सुराणा मपि विग्रहे।
ममैव तु न दुःखानां अस्ति मन्ये विपर्ययः॥14||

कच्चिन्न व्यधितो रामः कच्चिन्न परितप्यते।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः॥15||

कच्चिन्न दीनः संभ्रांतः कार्येषु च न मुह्यति।
कच्चि त्पुरुषकार्याणि कुरुते नृपतेस्सुतः॥16||

द्विविधं त्रिपाधोपाय मुपाय मपि सेवते।
विजिगीषु स्सुहृत् कच्चिन् मित्रेषु च परंतप॥17||

कच्चि न्मित्राणि लभते मित्रैश्चाप्यभिगम्यते।
कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः॥18||

कच्चि दाशास्ति देवानां प्रसादं पार्थिवात्मजः।
कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते॥19||

कच्चि न्नविगत स्नेहः प्रवासान्मयि राघवः।
कच्चि न्मां व्यसनात् अस्मान्मोक्षयिष्यति वानर॥20||

सुखानामुचितो नित्यं असुखानां अनूचितः।
दुःखमुत्तरमासाद्य कच्च् द्रामो न सीदति॥21||

कौसल्याया स्तथा कच्चित् सुमित्रायाः तथैव च।
अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च॥22||

मन्निमित्तेन मानार्हः कच्चि च्छोकेन राघवः।
कच्चि न्नान्यमना रामः कच्चि न्मां तारयिष्यति॥23||

कच्चि दक्षौहिणीं भीमां भरतो भातृवत्सलः।
ध्वजिनीं मंत्रिर्गुप्तां प्रेषयिष्यति मत्कृते॥24||

वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति।
मत्कृते हरिभिर्वीरै र्वृतो दंतानखायुधः॥25||

कच्चि च्च लक्ष्मण श्शूरः सुमित्रानंदवर्धनः।
अस्त्रविच्चरजालेन राक्षसान् विधमिष्यति॥26||

रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे।
द्रक्ष्यां अल्पेन कालेन रावणं ससुहृज्जनम्॥27||

कच्चिन्न तद्देम समानवर्णं
तस्याननं पद्मसमानगंधि।
मया विना शुष्यति शोकदीनं
जलक्षये पद्म मिवातपेन॥28||

धर्मापदेशात् त्यजतश्च राज्यं
मांचाप्यरण्यं नयतः पदातिम्।
नासीद्व्यधा यस्य न भीर्नशोकः
कच्चिच्च धैर्यं हृदये करोति॥29||

न चास्य मात न पिता नान्यः
स्नेहा द्विशिष्ठोऽस्ति मया समो वा।
ताव त्त्वहं दूत जिजीविषेयं
यावत्प्रवृत्तिं शृणुयां प्रियस्य॥30||

इतीव देवी वचनं महार्थं
तं वानरेंद्रं मधुरार्थ मुक्त्वा।
श्रोतुं पुनस्तस्य वचोsभि रामं
रामार्थयुक्तं विरराम रामा॥31||

सीताया वचनं श्रुत्वा मारुति र्भीमविक्रमः।
शिरस्यंजलि माधाय वाक्यमुत्तरमब्रवीत्॥32||

न त्वा मिहस्थां जानीते रामः कमल लोचने।
तेन त्वां नानय त्याशु शचीमिव पुरंदरः॥33||

श्रुत्वैव तु वचो मह्यं क्षिप्र मेष्यति राघवः।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम्॥34||

विष्टंभयित्वा बाणौघै रक्षोभ्यं वरुणालयम्।
करिष्यति पुरीं लंकां काकुत्‍स्थः शांतराक्षसाम्॥35||

तत्र यद्यंतरा मृत्यु र्यदि देवा स्सहासुराः।
स्थास्यंति पथि रामस्य स तानपि वधिष्यति॥36||

तवादर्शनजे नार्ये शोकेन स परिप्लुतः।
न शर्म लभते राम स्सिंहार्दित इव द्विपः॥37||

मलयेन च विंध्येन मेरुणा मंदरेण च।
दर्दुरेण च ते देवि शपे मूलफलेन च॥38||

यथा सु नयनं वल्गु बिंबोष्ठं चारुकुंडलम्।
मुखं द्रक्ष्यसि रामस्य पूर्णचंद्र मिवोदितम्॥39||

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ।
शतक्रतु मिवासीनं नाकपृष्ठस्य मूर्थनि॥40||

न मांसं राघवोभुज्ञ्के नचाsपि मधुसेवते।
वन्यं सुविहितं नित्यं भक्तमश्नाति पंचमम्॥41||

नैवदंशा न्न मशकान्नकीटा न्नसरीसृपान्।
राघवोऽपनयेत् गात्रात् त्वद्गते नांतरात्मना॥42||

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः।
नान्य च्चिंतयते किंचि त्स तु कामवशं गतः॥43||

अनिद्र स्सततं राम स्सुप्तोsपि च नरोत्तमः।
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते॥44||

दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्य त्सुमनोहरम्।
बहुशो हा प्रिये त्येवं श्वसं स्त्वां अभिभाषते॥45||

स देवि नित्यं परितप्यमान स्त्वां एव सीते त्यभिभाषमाणः।
धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः॥46||

सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका।
शरम्मखे सांबुदशेष चंद्रा निशेव वैदेहसुता बभूव॥47||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे षट्र्त्रिंशस्सर्गः ॥

॥ऒम् तत् सत्॥

|| Om tat sat ||